|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.235. अध्यायः 235
Mahabharata - Shanti Parva - Chapter Topics
गङ्गापुलिनगतयोः शक्रनारदयोः समीपंप्रति श्रीदेव्या आगमनम्॥ 1॥ शक्रंप्रति श्रिया स्वस्य देत्येषु निवासविप्रवासयोः कारणीभूततद्गुणदोषाभिधानम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-235-0x(6207)(74757)
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः।
पराभविष्यतश्चैव तन्मे ब्रूहि पितामह॥ 12-235-1(74758)
भीष्म उवाच। 12-235-2x(6208)
मन एव मनुष्यस्य पूर्वरूपाणि शंसति।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः॥ 12-235-2(74759)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर॥ 12-235-3(74760)
महतस्तपसो व्यष्ट्या पश्यँल्लोकौ परावरौ।
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः॥ 12-235-4(74761)
ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः।
विचचार यथाकालं त्रिषु लोकेषु नारदः॥ 12-235-5(74762)
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि।
ध्रुवद्वारभवां गङ्गां जगामावततार च॥ 12-235-6(74763)
`मेरुपादोद्भवां गङ्गां नारायणपदच्युताम्।
स वीक्षमाणो हृष्टात्मा तं देशमभिजग्मिवान्॥ 12-235-7(74764)
यं--देवजवाकीर्णं सूक्ष्मकाञ्जनवालुकम्।
गङ्गाद्वीपं समासाद्य नानावृक्षैरलङ्कृतम्॥ 12-235-8(74765)
सालतालाश्वकर्णानां चन्दनानां च राजिभिः।
मण्डितं विविधैः पुष्पैर्हंसकारण्डवायुतम्॥ 12-235-9(74766)
नदीपुलिनमासाद्य स्नात्वा संतर्प्य देवताः।
जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता॥' 12-235-10(74767)
सहस्रनयनश्चापि वज्री शम्बरपाकहा।
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह॥ 12-235-11(74768)
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतः।
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम्॥ 12-235-12(74769)
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः।
चक्रतुस्तौ तथाऽऽसीनौ महर्षिकथितास्तथा।
पूर्ववृत्तव्यतीतानि कथयन्तौ समाहितौ॥ 12-235-13(74770)
अद्य भास्करमुद्यन्तं रश्मिजालपुरस्कृतम्।
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः॥ 12-235-14(74771)
`विविक्ते पुण्यदेशे तु रममाणौ मुदा युतौ।
ददृशातेऽन्तरिक्षे तौ सूर्यस्योदयनं प्रति॥ 12-235-15(74772)
ज्योतिर्ज्वालसमाकीर्णं ज्योतिषां गणमण्डितम्।
अभितस्तूदयन्तं तमर्कमर्कमिवापरम्॥ 12-235-16(74773)
आकाशो ददृशे ज्योतिरुद्यतार्चिः समप्रभम्।
`अर्कस्य तेजसा तुल्यं तद्भास्करसमप्रभम्।'
तयोः समीपं तं प्राप्तं प्रत्यदृश्यत भारत॥ 12-235-17(74774)
तत्सुपर्णार्करचितमास्थितं वैष्णवं पदम्।
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत्॥ 12-235-18(74775)
`दृष्ट्वा तौ तु विक्रान्तौ प्राञ्जली समुपास्थितौ।
क्रमात्संप्रेक्ष्यमाणौ तौ विमानं दिव्यमद्भुतम्॥ 12-235-19(74776)
तस्मिंस्तदा सतीं कान्तां लोककान्तां परां शुभाम्।
धात्रीं लोकस्य रमणीं लोकमातरमच्युताम्॥' 12-235-20(74777)
दिव्याभिरुपशोभाभिरप्सरोभिः पुरस्कृताम्।
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम्॥ 12-235-21(74778)
नक्षत्रकल्पाभरणां तारापङ्क्तिसमस्रजम्।
श्रियं ददृशतुः पद्मां साक्षात्पद्मदलस्थिताम्॥ 12-235-22(74779)
साऽवरुह्य विमानाग्रादङ्गनानामनुत्तमा।
अभ्यागच्छन्त्रिलोकेशं शक्रं चर्षि च नारदम्॥ 12-235-23(74780)
नारदानुगतः साक्षान्मघवांस्तामुपागमत्।
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना॥ 12-235-24(74781)
चक्रे चानुपमां पूजां तस्याश्चापि स सर्वंवित्।
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह॥ 12-235-25(74782)
का त्वं केन च कार्येण संप्राप्ता चारुहासिनि।
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे॥ 12-235-26(74783)
श्रीरुवाच। 12-235-27x(6209)
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः।
ममात्मभावमिच्छन्तो यतन्ते परमात्मना॥ 12-235-27(74784)
साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते।
भूत्यर्तं सर्वभूतानां पद्मा श्रीः पद्ममालिनी॥ 12-235-28(74785)
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन।
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः॥ 12-235-29(74786)
अहं धृतिरहं सिद्धिरहं संभूतिरेव च।
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः॥ 12-235-30(74787)
राज्ञां विजयमानानां सेनाग्नेषु ध्वजेषु च।
निवसे धर्मशीलानां विषयेषु पुरेषु च॥ 12-235-31(74788)
जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि।
निवसामि मनुष्येन्द्रे सदैव बलसूदन॥ 12-235-32(74789)
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि।
प्रश्रिते दानशीले च सदैव निवसाम्यहम्॥ 12-235-33(74790)
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धनात्।
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम्॥ 12-235-34(74791)
शक्र उवाच। 12-235-35x(6210)
कथं वृत्तेषु दैत्येषु त्वमवात्सीर्वरानाने।
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान्॥ 12-235-35(74792)
श्रीरुवाच। 12-235-36x(6211)
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च।
स्वर्गमार्गाभिरामेषु सत्वेषु निरता ह्यहम्॥ 12-235-36(74793)
दानाध्ययनयज्ञेज्यापितृदैवतपूजनम्।
गुरूणामतिथीनां च तेषां नित्यमवर्तत॥ 12-235-37(74794)
सुसंमृष्टगुहाश्चासञ्जितस्त्रीका हुताग्नयः।
गुरुशुश्रूषका दान्ता ब्रह्मण्याः सत्यवादिनः॥ 12-235-38(74795)
श्रद्दधाना जितक्रोधा दानशीलाऽनसूयवः।
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः॥ 12-235-39(74796)
अमर्षेण न चान्योन्यं स्पृहयन्ते कदाचन।
न च जातूपतप्यन्ति धीराः परसमृद्धिभिः॥ 12-235-40(74797)
दातारः संग्रहीतार आर्याः करुणवेदिनः।
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः॥ 12-235-41(74798)
संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः।
यथार्हमानार्थकरा ह्रीनिषेवा यतव्रताः॥ 12-235-42(74799)
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः।
उपवासतपः शीलाः प्रतीता ब्रह्मवादिनः॥ 12-235-43(74800)
नैनानभ्युदियात्सूर्यो नैवास्वप्स्यन्प्रगेशयाः।
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन्॥ 12-235-44(74801)
काल्यं घृतं तु चान्वीक्ष्य प्रयता ब्रह्मवादिनः।
पङ्गल्यान्यपि चापश्यन्ब्रह्माणांश्चाप्यपूजयन्॥ 12-235-45(74802)
सदा हि ददतां धर्म्यं सदाचाप्रतिगृह्णताम्।
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा॥ 12-235-46(74803)
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्।
दयां च संविभागं च नित्यमेवान्वमोदताम्।
कालो यातः सुखेनैव धर्ममार्गे निवर्तताम्॥ 12-235-47(74804)
त्रस्तं विषण्णमुद्विग्नं भयार्तं व्याधिपीडितम्।
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते॥ 12-235-48(74805)
धर्ममेवानुवर्तन्ते न हिंसन्ति परस्परम्।
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः॥ 12-235-49(74806)
पितॄन्देवातिथींश्चैव गुरूंश्चैवाभ्यपूजयन्।
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोधृताः॥ 12-235-50(74807)
नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम्।
सर्वभूतेष्ववर्तन्त यथाऽऽत्मनि दयां प्रति॥ 12-235-51(74808)
नैवाकाशे न पशुषु नायोनौ च न पर्वसु।
इन्द्रियस्य विसर्गं ते रोचयन्ति कदाचन॥ 12-235-52(74809)
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा।
उत्साहोऽथानहकारः परमं सौहृदं क्षमा॥ 12-235-53(74810)
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा।
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो॥ 12-235-54(74811)
निद्रा तन्द्रीरसंप्रीतिरसूयाऽथानवेक्षिता।
अरतिश्च विषादश्च स्पृहा चाप्यविशन्न तान्॥ 12-235-55(74812)
साऽहमेवंगुणेष्वेव दानवेष्ववसं पुरा।
प्रजासर्गमुपादाय यावद्गुणविपर्ययम्॥ 12-235-56(74813)
ततः कालविपर्यासे तेषां गुणविपर्ययात्।
अपश्यं निर्गतं धर्मं कामक्रोधवशात्मनाम्॥ 12-235-57(74814)
सभासदां च वृद्धानां सतां कथयतां कथाः।
प्राहसन्नभ्यसूयंश्च सर्वबुद्धान्गुरून्परान्॥ 12-235-58(74815)
युवानश्च समासीना वृद्धानपि गतान्सतः।
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन्॥ 12-235-59(74816)
वर्तयत्येव पितरि पुत्रः प्रभवते तथा।
अमित्रभृत्यतां प्राप्य ख्यापयन्त्यनपत्रपाः॥ 12-235-60(74817)
तथा धर्मादपेतेन कर्मणा गर्हितेन ये।
महतः प्राप्नुवन्त्यर्थांस्तेषां तत्राभवत्स्पृहा॥ 12-235-61(74818)
उच्चैश्चाभ्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत्।
पुत्राः पितृनत्यचरन्नार्यश्चात्यचरन्पतीन्॥ 12-235-62(74819)
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्।
गुरुत्वान्नाभ्यनन्दन्त कुमारान्नान्वपालयन्॥ 12-235-63(74820)
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते।
अनिष्ट्वाऽसंविभज्याथ पितृदेवातिथीन्गुरून्॥ 12-235-64(74821)
न शौचमन्वरुद्ध्यन्त तेषां सूदजनास्तथा।
मनसा कर्मणा वाचा भक्ष्यमासीदनावृतम्॥ 12-235-65(74822)
`बालानां प्रेक्षमाणानां भक्तान्यश्नन्ति मोहिताः।
एको दासो भवेत्तेषां तेषां दासीद्वयं तथा॥ 12-235-66(74823)
त्रिगवा दानवाः केचिच्चतुरोजास्तथा परे।
षडश्वाः सप्तमातङ्गाः पञ्चमाहिषिकाः परे॥ 12-235-67(74824)
रात्रौ दधि च सक्तूंश्च नित्यमेवाविवर्जिताः।
अन्तर्दशाहे चाश्नन्ति गवां क्षिरं विचेतनाः॥ 12-235-68(74825)
क्रमदोहं न कुर्वन्ति वत्सस्तन्यानि भुञ्जते।
अनाथां कृपणां भार्यां घ्नन्ति नित्यं शपन्ति च॥ 12-235-69(74826)
शूद्रान्नपुष्टा विप्रास्तु निर्लज्जाश्च भवन्त्युत।
संकीर्णानि च धान्यानि नात्यवेक्षत्कुटुंबिनी॥ 12-235-70(74827)
मार्जारकुक्कुटश्वानैः क्रीडां कुर्वन्ति मानवाः।
गृहे कण्टकिनो वृक्षास्तथा निष्पाववल्लरी॥ 12-235-71(74828)
यज्ञियाश्च तथा वृक्षास्तेषामासन्दुरात्मनाम्।
कूपस्नानरता नित्यं पर्वमैथुनगामिनः॥ 12-235-72(74829)
तिलानश्नन्ति रात्रौ च तैलाभ्यक्ताश्च शेरते।
विभीतककरञ्जानां छायामूलनिवासिनः॥ 12-235-73(74830)
करवीरं च ते पुष्पं धारयन्ति च मोहिताः।
पद्मबिजानि खादन्ति पुष्पं जिघ्रन्ति मोहिताः॥ 12-235-74(74831)
न भोक्ष्यन्ति तथा नित्यं दैत्याः कालेन मोहिताः।
निन्दन्ति स्तवनं विष्णोस्तस्य नित्यद्विषो जनाः॥ 12-235-75(74832)
होमधूमो न तत्रासीद्वेदघोषस्तथैव च।
यज्ञाश्च न प्रवर्तन्ते यथापूर्वं गृहेगृहे॥ 12-235-76(74833)
शिष्याचार्यक्रमो नासीत्पुत्रैरात्मपितुः पिता।
विष्णुं ब्रह्मण्यदेवेशं हित्वा पाषण्डमाश्रिताः॥ 12-235-77(74834)
हव्यकव्यविहीनाश्च ज्ञानाध्ययनवर्जिताः।
देवस्वादानरुचयो ब्रह्मस्वरुचयस्तथा।
स्तुतिमङ्गलहीनानि देवस्थानानि सर्वशः॥' 12-235-78(74835)
विप्रकीर्णानि धान्यानि काकमूषिकभोजनम्।
अपावृतं पयोतिष्ठदुच्छिष्टाश्चास्पृशन्धृतम्॥ 12-235-79(74836)
कुद्दालं दात्रपिटकं प्रकीर्णं कांस्यभोजनम्।
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी॥ 12-235-80(74837)
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते।
`क्षुद्राः संस्कारहीनाश्च नार्यो ह्युदरपोषणाः॥ 12-235-81(74838)
शौचाचारपरिभ्रष्टा निर्लज्जा भोगवञ्चिताः।
उभाभ्यामेव पाणिभ्यां शिरः कण्डूयनान्विताः।
गृहजालाभिसंस्थाना ह्यासंस्तत्र स्त्रियः पुनः॥ 12-235-82(74839)
श्वश्रूश्वशुरयोर्मध्ये भर्तारं कृतकं यथा।
प्रेक्षयन्ति च निर्लज्जा नार्यः कुलजलक्षणाः॥' 12-235-83(74840)
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च।
बालानां प्रेक्षमाणानां स्वयं भक्ष्यमभक्षयन्।
तथा भृत्यजनं सर्वमसंतर्प्य च दानवाः॥ 12-235-84(74841)
पायसं कृसरं मांसमपूपानथ शष्कुलीः।
अपाचयन्नात्मनोऽर्थे वृथा मांसान्यभक्षयन्॥ 12-235-85(74842)
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेशयाः।
आवृत्तकलहाश्चात्र दिवारात्रं गृहेगृहे॥ 12-235-86(74843)
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह।
आश्रमस्थान्विकर्मस्थाः प्राद्विषन्त परस्परम्॥ 12-235-87(74844)
संकराश्चाभ्यवर्तन्त न च शौचमवर्तत।
ये च वेदविदो विप्रा विस्पष्टमनुचश्च ये।
निरन्तरविशेषास्ते बहुमानावमानयोः॥ 12-235-88(74845)
भावमाभरणं वेषं गतं स्थितमवेक्षितम्।
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्॥ 12-235-89(74846)
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः।
क्रीडारतिविहारेषु परां मुदमवाप्नुवन्॥ 12-235-90(74847)
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान्।
नाभ्यवर्न्तत नास्तिक्याद्वर्तन्तः संभवेष्वपि॥ 12-235-91(74848)
मित्रेणाभ्यर्थितं द्रव्यमर्थी संश्रयते क्वचित्।
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु॥ 12-235-92(74849)
परस्वादानरुचयो विपणव्यवहारिणः।
अदृश्यन्तार्यवर्णषु शृद्राश्चापि तपोधनाः॥ 12-235-93(74850)
अधीयतेऽव्रताः केचिद्वृथा व्रतमथापरे।
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिप्यसखो गुरुः॥ 12-235-94(74851)
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव।
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान्॥ 12-235-95(74852)
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः।
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत॥ 12-235-96(74853)
प्रातः सायं च सुप्रश्नं कल्पनं प्रेषणक्रियाः।
शिष्यानप्रहितास्तेषामकुर्वन्गुरवश्च ह॥ 12-235-97(74854)
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत।
अन्वशासच्च भर्तारं समाह्वायाभिजल्पति॥ 12-235-98(74855)
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता।
व्यभजच्चापि संरम्भाद्दुःखवासं तथाऽवसत्॥ 12-235-99(74856)
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम्।
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि॥ 12-235-100(74857)
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः।
`श्वशुरानुगताः सर्वे ह्युत्सृज्य पितरौ सुताः॥ 12-235-101(74858)
स्वकर्मणा च जातोऽहमित्येवंवादिनस्तथा।'
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः॥ 12-235-102(74859)
तेष्वेवमादीनाचारानाचरत्सु विपर्यये।
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः॥ 12-235-103(74860)
तन्मां स्वयमनुप्राप्ताभिनन्द शचीपते।
त्वयाऽर्चितां मां देवेश पुरो धास्यन्ति देवताः॥ 12-235-104(74861)
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः।
सप्तदेव्यो जयाष्टभ्यो वासमेष्यन्ति तेऽष्टधा॥ 12-235-105(74862)
आशा श्रद्धा धृतिः क्षान्तिर्विजितिः सन्नतिः क्षमा।
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन॥ 12-235-106(74863)
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागताः।
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु॥ 12-235-107(74864)
इत्युक्तवचनां देवीं प्रीत्यर्थं च ननन्दतुः।
नारदश्चात्र देवर्षिर्वृत्रहन्ता च वासवः॥ 12-235-108(74865)
ततोऽनलसखो वायुः प्रववौ देववर्त्मसु।
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः॥ 12-235-109(74866)
शुचौ चाभ्यर्थिते देशे त्रिदशाः प्रायशः स्थिताः।
लक्ष्मीसहितमासीनं मघवन्तं दिदृक्षवः॥ 12-235-110(74867)
ततो दिवं प्राप्य सहस्रलोचनः।
स्त्रियोपपन्नः सुहृदा महर्षिणा।
रथेन हर्यश्वयुजा सुरर्षभः
सदः सुराणामभिसत्कृतो ययौ॥ 12-235-111(74868)
अथेङ्गितं वज्रधरस्य नारदः
श्रियश्च देव्या मनसा विचारयन्।
श्रियै शशंसामरदृष्टपौरुषः
शिवेन तत्रागमनं महर्षिभिः॥ 12-235-112(74869)
ततोऽमृतं द्यौः प्रववर्ष भास्वती
पितामहस्यायतने स्वयंभुवः।
अनाहता दुन्दुभयोऽथ नेदिरे
तथा प्रसन्नाश्च दिशश्चकाशिरे॥ 12-235-113(74870)
यथर्तु सस्येषु ववर्ष वासवो
न धर्ममार्गाद्विचचाल कश्चन।
अनेकरत्नाकरभूषणा च भूः
सुघोषघोषाश्च दिवौकसां जये॥ 12-235-114(74871)
क्रियाभिरामा मनुजा मनस्विनो
बभुः शुभे पुण्यकृतां पथि स्थिताः।
नरामराः किन्नरयक्षराक्षसाः
समृद्धिमन्तः सुमनस्विनोऽभवन्॥ 12-235-115(74872)
न जात्वकाले कुसुमं कुतः फलं
पपात वृक्षात्पवनेरितादपि।
रसप्रदाः कामदुघाश्च धेनवो
न दारुणा वाग्विचचार कस्यचित्॥ 12-235-116(74873)
इमां सपर्यां सह सर्वकामदैः
श्रियाश्च शक्रप्रमुखैश्च दैवतैः।
पठन्ति ये विप्रसदः समागताः
समृद्धकामाः श्रियमाप्नुवन्ति ते॥ 12-235-117(74874)
त्वया कुरूणां वर यत्प्रचोदितं
भवाभवस्येह परं निदर्शनम्।
तदद्य सर्वं परिकीर्तितं मया
परीक्ष्य तत्त्वं परिगन्तुमर्हसि॥ 12-235-118(74875)
`संस्मृत्य बुद्धीन्द्रियगोचरातिगं
स्वगोचरे सर्वकृतालयं तम्।
हरिं महापाग्रहरं जनास्ते
संस्मृत्य संपूज्य विधूतपापाः॥ 12-235-119(74876)
यमैश्च नित्यं नियमैश्च संयता
स्तत्वं च विष्णोः परिपश्यमानाः।
देवानुसारेण विमुक्तियोगं
ते गाहमानाः परमाप्नुवन्ति॥ 12-235-120(74877)
एवं राजेन्द्र सततं जपहोमपरायणः।
वासुदेवपरो नित्यं ज्ञानध्यानपरायणः॥ 12-235-121(74878)
दानधर्मरतिर्नित्यं प्रजास्त्वं परिपालय।
वासुदेवपरो नित्यं ज्ञानध्यानपरायणान्।
विशेषेणार्चयेथास्त्वं सततं पर्युपास्व च॥' ॥ 12-235-122(74879)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि प़ञ्चत्रिंशदधिकद्विशततमोऽध्यायः॥ 235॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-235-6 भवमौलिभवां गङ्गां इति ध. पाठः॥ 12-235-26 विजितिः स्मृतिः ट.ड. पाठः॥ 12-235-29 इति ट. ड. ध. पाठः॥ 12-235-44 धैर्यादुद्धारितारिषु इति नचाप्यासन्प्रगेशयाः इति ध. पाठः॥ 12-235-45 कार्यं कृतं चान्ववेक्ष्य इति ट. पाठः॥ 12-235-60 मृत्या भर्त्रन्तरं प्राप्य इति ट. पाठः॥ 12-235-80 प्रकीर्णं कांस्यभाजनमिति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|